मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ४

संहिता

अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ ।
स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥

पदपाठः

अप्रा॑मिऽसत्य । म॒घ॒ऽव॒न् । तथा॑ । इत् । अ॒स॒त् । इन्द्र॑ । क्रत्वा॑ । यथा॑ । वशः॑ ।
स॒नेम॑ । वाज॑म् । तव॑ । शि॒प्रि॒न् । अव॑सा । म॒क्षु । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे अप्रामिसत्य अहिंसितसत्य हे मघवन्निन्द्र तथेदसत्तथैवभवति । हे इन्द्र क्रत्वा कर्मणा प्रज्ञानेन यथा येनप्रकारेण वशः कामयेः । हे शिप्रिन् अवसा रक्षणेन निमित्तेन वाजमन्नं सनेम संभजेम वयं तव त्वदनुग्रहात् । कीदृशावयं मक्षु चित् शीघ्रमेव यन्तः शत्रून् गच्छन्तोभि भवन्तः हे अद्रिवः अद्रि- र्वज्रस्तद्वन्निन्द्रेति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६