मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् ९

संहिता

अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेन्द्र ते॒ वचः॑ ।
स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥

पदपाठः

अ॒वि॒प्रः । वा॒ । यत् । अवि॑धत् । विप्रः॑ । वा॒ । इ॒न्द्र॒ । ते॒ । वचः॑ ।
सः । प्र । म॒म॒न्द॒त् । त्वा॒ऽया । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । प्राचा॑मन्यो॒ इति॒ प्राचा॑ऽमन्यो । अह॑म्ऽसन ॥

सायणभाष्यम्

हे इन्द्र ते तव वचः स्तोत्रं यद्यः अविप्रोवा अमेधावी अस्तुतिकुशलोवा अविधत् कुर्यात् त्वां स्तौतीत्यर्थः सस्तोता त्वाया त्वयीच्छया साधनेन प्रममन्दत् प्रकर्षेण मोदते । हे शतक्रतो बहुकर्मन् हे प्राचामन्यो प्राचीनक्रोध अप्रतिहतक्रोधेत्यर्थः नहीन्द्रक्रोधं प्रतिहन्ति कश्चित् हे अहंसन संग्रामे अहमित्यात्मनोमहत्त्वं प्रकाशयन् यः शत्रुं संभजते सतथोक्तस्तादृशेन्द्र ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७