मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६१, ऋक् १७

संहिता

अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः ।
विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥

पदपाठः

अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑ । त्रास्व॑ । प॒रे । च॒ । नः॒ ।
विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥

सायणभाष्यम्

हे इन्द्र नोस्मान् अद्याद्य यदद्यशब्दवाच्यमहरस्ति तत्र । सर्वत्र एवम् । श्वश्वः त्रास्व रक्ष । तथा परेच परस्मिंस्तृतीयेहनि च त्रास्व । हे सत्पते सतांपाल विश्वा सर्वाण्यप्यहाहानि सर्वेष्वष्वहःसु नोस्म्मान् जरितॄन् रक्षिषो रक्षसि । तथा दिवानक्तंच रक्षिषः रक्षसि रक्षवा ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९