मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६३, ऋक् ९

संहिता

अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।
यवं॒ न प॒श्व आ द॑दे ॥

पदपाठः

अ॒स्य । वृष्णः॑ । वि॒ऽओद॑ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे॑ ।
यव॑म् । न । प॒श्वः । आ । द॒दे॒ ॥

सायणभाष्यम्

अस्यव्कुष्णो वर्षितुरिन्द्रस्य व्योदने विविधेन्ने लब्धेसति जीवसे जीवनाय उरुविस्तीर्णं क्रमिष्ट पदनिधानं करोति सर्वोलोकः । अथवा इन्द्र्स्य स्वभूतेन्नेलब्धव्येवा सति पदंन्यासं करोति तथाकृत्वा यवंन पश्वः यवं पशवइव सर्वोजनः आददे स्तुतादस्मात् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४३