मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् १०

संहिता

अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।
तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥

पदपाठः

अ॒यम् । ते॒ । मानु॑षे । जने॑ । सोमः॑ । पू॒रुषु॑ । सू॒य॒ते॒ ।
तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥

सायणभाष्यम्

अयं सोमस्ते त्वदर्थं तव स्वभूतो वा पूरुषु मनुष्येषु मध्ये मानुषे जन मयि सूयते । अथवा पूरुनामसु राजसु सूयते तस्य तमित्यर्थः तमेहि आगच्छ आगत्यच प्रद्रव ग्रहसमीपं तथा कृत्वा पिब तं सोमम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५