मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६४, ऋक् ११

संहिता

अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।
आ॒र्जी॒कीये॑ म॒दिन्त॑मः ॥

पदपाठः

अ॒यम् । ते॒ । श॒र्य॒णाऽव॑ति । सु॒ऽसोमा॑याम् । अधि॑ । प्रि॒यः ।
आ॒र्जी॒कीये॑ । म॒दिन्ऽत॑मः ॥

सायणभाष्यम्

अयमस्माभिरभिषुतः सोमः ते त्वां मदिन्तमोमादयितृतमोयं अधिश्रितः आश्रितः । कुत्रेति तदुच्यते शर्यणावति कुरुक्षेत्रस्य जघनार्धभवे शरतृ- णोपेते सरसि । तत्सरः कुत्रवर्ततइति उच्यते-सुषोमायां एतन्नामिकायां नद्याम् । साच कुत्र वर्ततइति तदुच्यते-आर्जीकीयेएतन्नामके देशे । एवमु- क्तप्रकारेणात्यन्तदूरदेशे वर्तते यः सोमः सएवायमभिषुतं पिबेति उत्तरत्रान्वयः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४५