मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६६, ऋक् ७

संहिता

व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् ।
तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥

पदपाठः

व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् ।
तस्मै॑ । ऊं॒ इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥

सायणभाष्यम्

वयं यजमाना एनमिन्द्रं वज्रिणं इदा इदानीं त्द्यश्च इह अत्र अपीपेम आप्याययाम सोमेन । तस्माउ तस्माएवाद्यात्र समना समनाय संग्रामार्थं सुतमभिषुतं सोमं भर हरत हे अध्वर्य्वादयः । नूनमिदानीं श्रुते स्तोत्रे श्रुतेसति आभूषत आभवत्वागच्छतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ४९