मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १

संहिता

त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।
सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥

पदपाठः

त्यान् । नु । क्ष॒त्रिया॑न् । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ।
सु॒ऽमृ॒ळी॒कान् । अ॒भिष्ट॑ये ॥

सायणभाष्यम्

त्यान् तानादित्यान् क्षत्रियान् जात्या क्षत्रियान् अवोरक्षणं याचिषामहे याचामहे । कीदृशान्सुमृळीकान् सुष्ठु सुखयितॄन् किमर्थं अभिष्टये अभिगम- नाय अभिमतायवा । मत्स्यपक्षे जालनिर्गमनं प्रार्थितम् । इतरपक्षेभिमतमिति विवेकः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५१