मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् ३

संहिता

तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।
आ॒दि॒त्याना॑मरं॒कृते॑ ॥

पदपाठः

तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ ।
आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥

सायणभाष्यम्

तेषामादित्यानां हिखलु चित्रं चायनीयमुक्थ्यं स्तुत्यं वरूथं धनमस्ति दाशुषे हविर्दात्रे अरकृते अलंकर्त्रे पर्याप्तकारिणे यजमानाय दातव्यं धनम- स्तीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५१