मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् ५

संहिता

जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।
कद्ध॑ स्थ हवनश्रुतः ॥

पदपाठः

जी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि॑त्यासः । पु॒रा । हथा॑त् ।
कत् । ह॒ । स्थ॒ । ह॒व॒न॒ऽश्रु॒तः॒ ॥

सायणभाष्यम्

हे आदित्यासः आदित्याः नोस्मान् जीवान् इदानीं जीवतः सतो अभिधेतन अभिधावत अभिधावनं कुरुत पुरा हथात् हननात् मृतेः पूर्वम् । कद्ध क्वनु स्थ भवथ । हे हवनश्रुतः आह्वानश्रोतारः आह्वानं श्रुत्वा शीघ्रमागच्छतेति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५१