मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् ७

संहिता

अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।
आदि॑त्या॒ अद्भु॑तैनसः ॥

पदपाठः

अस्ति॑ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति॑ । रत्न॑म् । अना॑गसः ।
आदि॑त्याः । अद्भु॑तऽएनसः ॥

सायणभाष्यम्

हे देवाः अहोः हन्तुः पापशीलस्य उर्वस्ति महत्पापमस्ति अनागसः अपापस्य रत्नं रमणीयं सुकृतं श्रेयोस्ति ततो हे आदित्या अद्भुतैनसः अभूतपा- पाः अतोस्मदभिमतं कुरुतेति भावः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५२