मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् ८

संहिता

मा न॒ः सेतु॑ः सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।
इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥

पदपाठः

मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ ।
इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥

सायणभाष्यम्

अयमिन्द्रः नोस्मान् सेतुः बन्धको जालो मासिषेत् माबध्नातु । नोस्मान् महे महते कर्मणे परिवृणक्तु परिवर्जयतु जालात् । कः इन्द्रइत् इन्द्रएव श्रुतो विश्रुतः वशी सर्वस्य वशीकर्ता सपरिवृणक्तु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५२