मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १०

संहिता

उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।
सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥

पदपाठः

उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप॑ । ब्रु॒वे॒ ।
सु॒ऽमृ॒ळी॒काम् । अ॒भिष्ट॑ये ॥

सायणभाष्यम्

उतअपिच हे महि महति अदिते देवमातः देवि त्वा त्वां अहं मत्स्यपक्षे मत्स्यप्रमुखोहमुपब्रुवे उपेत्यस्तौमि । कीदृशीं सुमृळीकां सुष्ठु सुखयित्रीं किमर्थमभिष्टयेभिमताय ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५२