मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् ११

संहिता

पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।
माकि॑स्तो॒कस्य॑ नो रिषत् ॥

पदपाठः

पर्षि॑ । दी॒ने । ग॒भी॒रे । आ । उग्र॑ऽपुत्रे । जिघां॑सतः ।
माकिः॑ । तो॒कस्य॑ । नः॒ । रि॒ष॒त् ॥

सायणभाष्यम्

हे अदिते आपर्षि सर्वतः पालयसि दीने क्षीणे गभीरे उदके उदकनामैतत् गंभीरं गहनमिति तन्नामसुपाठात् उग्रपुत्रे उद्गूर्णाः पुत्राः यस्मिन् तत्तस्मिन् उदके जिघांसतो हिंसतः जालं तोकस्य नोस्माकं तनयस्य तनयं माकीरिषत् मैवहिंसां करोतु ॥ ११ ॥ आदित्यस्य पशावनेहोनइति पुरोडाशस्यानुवाक्या । सूत्रितंञ्च-अनेहोनउरुव्रजेदितिर्ह्यजनिष्टेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५३