मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १३

संहिता

ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धास॒ः स्वय॑शसः ।
व्र॒ता रक्ष॑न्ते अ॒द्रुहः॑ ॥

पदपाठः

ये । मू॒र्धानः॑ । क्षि॒ती॒नाम् । अद॑ब्धासः । स्वऽय॑शसः ।
व्र॒ता । रक्ष॑न्ते । अ॒द्रुहः॑ ॥

सायणभाष्यम्

ये मूर्धानः सर्वेषा मूर्धस्थानीया उच्छ्रिताः क्षितीनां मनुष्याणां अदब्धासः अहिंसकाः स्वयशसः स्वायत्तकीर्तयः व्रता व्रतान्यस्मदीयानि कर्माणि रक्षंते पालयन्ते अद्रुहः अद्रोग्धारः सन्तः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५३