मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १४

संहिता

ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।
स्ते॒नं ब॒द्धमि॑वादिते ॥

पदपाठः

ते । नः॒ । आ॒स्नः । वृका॑णाम् । आदि॑त्यासः । मु॒मोच॑त ।
स्ते॒नम् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥

सायणभाष्यम्

हे आदित्यासः आदित्यास्ते यूयं नोस्मान् वृकाणां हिंसकानां अदातॄणां वा आस्नः आस्यात्सकाशान्मुमोचत विमोचनं कुरुत स्तेनं बद्धमिव हे अदिते त्वंच मोचयास्मानिति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५३