मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १५

संहिता

अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।
अ॒स्मदे॒त्वज॑घ्नुषी ॥

पदपाठः

अपो॒ इति॑ । सु । नः॒ । इ॒यम् । शरुः॑ । आदि॑त्याः । अप॑ । दुः॒ऽम॒तिः ।
अ॒स्मत् । ए॒तु॒ । अज॑घ्नुषी ॥

सायणभाष्यम्

हे आदित्या इयं शरारुर्हिंसिका प्रसितिः जालोइकप्रेरिता अजघ्नुषी अहिंसन्ती सती अस्मदस्मत्तः सु सुष्ठु अपोएतु अपगच्छत्वेव । तथा नोस्माकं दुर्मतिर्दुष्टामतिरप्यजघ्नुषी अस्मत्तोपगच्छतु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५३