मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १६

संहिता

शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् ।
पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥

पदपाठः

शश्व॑त् । हि । वः॒ । सु॒ऽदा॒न॒वः॒ । आदि॑त्याः । ऊ॒तिऽभिः॑ । व॒यम् ।
पु॒रा । नू॒नम् । बु॒भु॒ज्महे॑ ॥

सायणभाष्यम्

हे सुदानवः सुदानाः हे आदित्या वोयुष्माकं ऊतिभीरक्षाभिः वयं पुरा नूनमिदानीमपि शश्वत् सर्वदा बुभुज्महे यद्वा शश्वद्बहून् भोगान् बुभुज्महे ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५४