मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १७

संहिता

शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः ।
देवा॑ः कृणु॒थ जी॒वसे॑ ॥

पदपाठः

शश्व॑न्तम् । हि । प्र॒ऽचे॒त॒सः॒ । प्र॒ति॒ऽयन्त॑म् । चि॒त् । एन॑सः ।
देवाः॑ । कृ॒णु॒थ । जी॒वसे॑ ॥

सायणभाष्यम्

हे प्रचेतसः प्रकृष्टमाया हे देवाः शश्वन्तं बहुमपि प्रतियन्तं चित् प्रतिगच्छन्तमपि शत्रुं एनसः पापस्य कर्तारं अथवा एनसः पापकृतः व्यत्ययेन बहुवचनं पापकर्तारं जीवसेजीवनायास्माकं कृणुत कुरुत अस्मत्तो वियुक्तमिति शेषः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५४