मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १८

संहिता

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।
ब॒न्धाद्ब॒द्धमि॑वादिते ॥

पदपाठः

तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति ।
ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥

सायणभाष्यम्

तद्बन्धकं नोस्माकं सु सुष्ठु नव्यं स्तुत्यं सन्यसे संभजनाय भवतु अस्माकं मोचनेन स्तुत्यं भवत्वित्यर्थः । हे आदित्या अदितेः पुत्राः हे अदिते त्वदनुग्रहाद्यन्मुमोचति मुचत्यस्मान् बन्धाद्बद्धमिव बन्धनसाधनंपूर्वं यत्प्रतिबन्धकत्वादासीत् तदेव युष्मदनुग्रहादस्मान्मुञ्चतु यद्वा युष्माकं यद्रक्षणमस्मान्मुचति तत् सु सुष्ठु स्तुत्यं संभजनाय भवत्विति योज्यम् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५४