मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् १९

संहिता

नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।
यू॒यम॒स्मभ्यं॑ मृळत ॥

पदपाठः

न । अ॒स्माक॑म् । अ॒स्ति॒ । तत् । तरः॑ । आदि॑त्यासः । अ॒ति॒ऽस्कदे॑ ।
यू॒यम् । अ॒स्मभ्य॑म् । मृ॒ळ॒त॒ ॥

सायणभाष्यम्

हे आदित्यासः आदित्याः युष्मत्कर्तृकस्तत्तरोवेगोस्माकं नास्ति योवेगो बन्धकाज्जालादतिष्कदे अस्माकमतिस्कन्दनाय प्रभवति । अतो यूयमस्मभ्यं मृळत तत्तादृशंतरः कुरुतेत्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५४