मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् २०

संहिता

मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरु॑ः ।
पु॒रा नु ज॒रसो॑ वधीत् ॥

पदपाठः

मा । नः॒ । हे॒तिः । वि॒वस्व॑तः । आदि॑त्याः । कृ॒त्रिमा॑ । शरुः॑ ।
पु॒रा । नु । ज॒रसः॑ । व॒धी॒त् ॥

सायणभाष्यम्

हे आदित्या नोस्मान्विवस्वतो विवस्वत्पुत्रस्य यमस्य । पुत्रे पितृशब्दः । तस्य हेतिरायुधभूता कृत्रिमा क्रियया निष्पन्ना शरुर्हिंसिका प्रसितिः पुरा पूर्वं नु इदानीं सर्वदेत्यर्थः जरसः इदानीं जीर्णान् मावधीत् माहिंस्यात् ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५४