मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६७, ऋक् २१

संहिता

वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् ।
विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥

पदपाठः

वि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् ।
विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥

सायणभाष्यम्

हे आदित्यासः आदित्या द्वेषोद्वेष्टृन् सु सुष्ठु विवृहत उन्मूलयत नाशयतेत्यर्थः । तथा अंहतिं पातकं पापं विवृहत् हन्तेरंहचेत्यतिप्रत्ययः । तथा संहितं जालं विवृहत् तथा रपः पापं सर्वं विष्वक् विषूचीनं विवृहत् । रपो रिप्रं इतिपापनामनी भवतइतियास्कः ॥ २१ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवोये वेदार्थप्रकाशे ऋक्संहिता- भाष्ये षष्ठाष्टके चतर्थोध्यायः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ५४