मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् ५

संहिता

अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ ।
नाना॒ हव॑न्त ऊ॒तये॑ ॥

पदपाठः

अ॒भिष्ट॑ये । स॒दाऽवृ॑धम् । स्वः॒ऽमीळ्हेषु । यम् । नरः॑ ।
नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥

सायणभाष्यम्

हे यजमाना युष्माकं अभिष्टये साहाय्यार्थं अभिगमनाय अभिष्टये वा सदावृधं सर्वदा वर्धयन्तं सेवकान् स्वयं सर्वदा वर्धमानं वा हुवइतिशेषः । यं स्वर्मीह्ळेषु संग्रामेषु नरोनेतारो मनुष्याः नाना बहुप्रकारं हवन्ते आह्वयन्ति ऊतये रक्षार्थं तं हुवइतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः