मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६८, ऋक् १९

संहिता

न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑ः ।
अ॒व॒द्यमधि॑ दीधरत् ॥

पदपाठः

न । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ ।
अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥

सायणभाष्यम्

हे वाजबन्धवः अन्नबन्धवः अन्नप्रदाः एवं पुत्राणां पितृपुत्ररूपाणां षण्णां वा संबोधनं हे राजानः युष्मे युष्मासु निनित्सुश्चन निन्दकोपि मर्त्योम- नुष्यः अवद्यं निंदा नाधिदीधरत् नान्वधारयत् नारोपयति युष्मासु । अतःअनिन्द्या यूयमिति दातॄणां स्तुतिः ॥ १९ ॥

प्रप्रवइत्यष्टादशर्चं दशमं सूक्तं प्रियमेधस्याङ्गिरमस्यार्षं द्वितीया नदंवइत्येषा चतुःसप्तकोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः एकादशीषोडश्यौ पंक्ती शिष्टादशानुष्टुभः । अपादिन्द्रइत्यर्धर्चःवैश्वदेवः वरुणइदिहेत्याद्यास्त्रयोर्धर्चा वरुणदेवताकाः । शिष्टाऎन्द्मः । तथाचानुक्रान्तम्-प्रप्रद्मूनानुष्टुभं द्विबृहत्यन्तं द्वितीयोष्णिक् चतुर्थ्याद्यास्तिस्रोगायत्र्यः षोळश्येकादश्यौपङ्क्ती अपाद्वैश्वदेवोर्धर्चस्त्रयोवारुणाइति । आद्यस्तृचः षोडशिशस्त्रे आनु- ष्टुभः सूत्रितञ्च-प्रप्रवस्त्रिष्टुभमिषमर्चतप्रार्चतेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः