मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ४

संहिता

अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।
सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥

पदपाठः

अ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ।
सू॒नुम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥

सायणभाष्यम्

गोपतिं गवांस्वामिनमिन्द्रं अभिप्रार्च प्रकर्षेण पूजय गिरा स्तुत्या यथा विदे सयथा स्वात्मानं स्तुतप्रकारं जानाति यथावा यागं प्रतिगन्तव्यमिति जानाति तथार्चेति । कीदृशमिन्द्रं सत्यस्य यज्ञस्य सत्यस्यवा सूनुं पुत्रं तत्रानुरक्तत्वात् सूनुरित्युपचर्यते सत्पतिं सतां यजमानानां पालकम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः