मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ८

संहिता

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।
अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥

पदपाठः

अर्च॑त । प्र । अ॒र्च॒त॒ । प्रिय॑ऽमेधासः । अर्च॑त ।
अर्च॑न्तु । पु॒त्र॒काः । उ॒त । पुर॑म् । न । धृ॒ष्णु । अ॒र्च॒त॒ ॥

सायणभाष्यम्

हे अध्वर्य्वादयो यूयं इन्द्रं अर्चत पूजयत स्तुत्याप्रार्चत प्रकर्षेणार्चतेन्द्रमेव । हे प्रियमेधासः प्रियमेधसम्बन्धिनः तद्गोत्रा यूयमर्चतेन्द्रं पुत्रका पुत्राअप्यर्चन्त्विन्द्रम् । उतापिच पुरंन धृष्णु यथा पुरं धर्षणशीलं अर्चन्ति तादृशमिन्द्रमर्चत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः