मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् ९

संहिता

अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।
पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥

पदपाठः

अव॑ । स्व॒रा॒ति॒ । गर्ग॑रः । गो॒धा । परि॑ । स॒नि॒स्व॒न॒त् ।
पिङ्गा॑ । परि॑ । च॒नि॒स्क॒द॒त् । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् ॥

सायणभाष्यम्

गर्गरो गर्गरध्वनियुक्तोवा वाद्यविशेषो युद्धे अवस्वराति भयंशब्दयति । गोधा हस्तघ्नः परि परितः सनिष्वणत् स्वनति भृशं पिंगा पिंगव- र्णाज्यापि परिचनिष्कदत् परिस्कन्दते यस्मादेवं युद्धः संनद्धः अतइन्द्राय ब्रह्मपरिवृढंकर्म स्तुतिलक्षणं उद्यतं भवत्वितिशेषः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः