मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १४

संहिता

अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ।
भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥

पदपाठः

अति॑ । इत् । ऊं॒ इति॑ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः॑ । विश्वाः॑ । अति॑ । द्विषः॑ ।
भि॒नत् । क॒नीनः॑ । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒रः । गि॒रा ॥

सायणभाष्यम्

अयमिन्द्रः शक्रः शक्तः सन् अतीद्वोहते अतिक्रम्य गच्छत्येव संग्रामे निरोधकान् शत्रून् । तदेवाह-अयमिन्द्रो विश्वाः द्विषो द्वेष्टृन् शत्रूनति अतिक्रम्य गच्छति । कनीनः कमनीयः परोमेघानां परस्ताद्वर्तमान इन्द्रओदनं मेघनामैतत् मेघं भिनत् अभिनत् भिनत्ति वृष्ट्यर्थम् । कीदृशं गिरा माध्यमिकयावाचा स्तनितलक्षणया पच्यमानं वज्रनिर्घोषेण ताड्यमानमित्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः