मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १५

संहिता

अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् ।
स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥

पदपाठः

अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ।
सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒ऽक्रतु॑म् ॥

सायणभाष्यम्

अयमिन्द्रः अर्भकोन अल्पशरीरः कुमारकः कुमारकइव पित्रे मात्रे सयथाधितिष्ठति तद्वत् नवं स्तुत्यं रथमधितिष्ठदधितिष्ठदधितिष्ठति सइन्द्रो महिषं महान्तं मृगं मृगवदितस्ततो धावन्तं सर्वैर्मृग्यं वा विभुक्रतुं बहुकर्माणं मेघं पक्षत् पचति वृष्ट्यभिमुखं करोतीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः