मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६९, ऋक् १८

संहिता

अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् ।
पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥

पदपाठः

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒यऽमे॑धासः । ए॒षा॒म् ।
पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒श॒त॒ ॥

सायणभाष्यम्

अनया स्तुतिमुपसंहरति एषां देवानामिन्द्रादीनां प्रत्नस्य पुराणस्यौकसः स्थानस्य पुराणं स्थानं प्रियमेधासः प्रियमेधा अन्वाशत अनुप्राप्ताः । कीदृशाः प्रियमेधाः पूर्वीं मुख्यां प्रयतिं प्रदानमनुलक्षीकृत्य वृक्तबर्हिषः स्तीर्णदर्भाः हितप्रयसः आसादितसोमादिहविष्काः ॥ १८ ॥

अष्टमेनुवाके एकादशसूक्तानि तत्र योराजेति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका-योराजापञ्चोना पुरुहन्मा बार्हतं त्रिप्रगाथाद्युष्णिगनु- ष्टुप्पुरउष्प्पिगन्तमिति । पुरुहन्मऋषिः सच क्वचित्कथंचिदविशेषितमिति परिभाषयांगिरसः आद्यातृतीयापञ्चम्योबृहत्यः द्वितीयाचतुर्थीष- ष्ठ्यः सतोबृहत्यः सप्तम्याद्याः षट्बृहत्यः त्रयोदशीपुरउष्णिक् आद्यद्वादशकाद्यष्टका आद्यश्चेत्पुरउष्णिगितिहि तल्लक्षणम् । इन्द्रोदेवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकादशर्चः तथाचपञ्चमारण्यकेसूत्रितं-योराजाचर्षणीनामित्येकादशेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः