मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७०, ऋक् ४

संहिता

अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ ।
सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒ः क्षामो॑ अनोनवुः ॥

पदपाठः

अषा॑ळ्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रयः॑ ।
सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒न॒वुः॒ ॥

सायणभाष्यम्

अषाह्ळं असोढं उग्रमुद्गूर्णबलं पृतनासु शत्रुसेनासु सासहिं अभिभवितारं स्तौमीत्यर्थः । यस्मिन्निन्द्रे जायमाने महीर्महत्यः उरुज्रयो बहुवेगाः धेनवोहविरादिनाप्रीणयित्र्यः प्रजागावएववा समनोनवुः सम्कस्तुवन् । नकेवलं धेनवएव अपितु द्यावोद्युलोकाः क्षामः पृथिव्यश्च समनोनवुः । तत्रत्याः सर्वेप्राणिनो नमन्तेइत्यर्थः । त्रिवृतो लोकाइति श्रुतेर्बहुवचनम् ॥ ४ ॥ तृतीयेहनि निष्केवल्ये वैरूपसामपक्षे यद्य्यावइति प्रगाथःस्तोत्रियः । सूत्रितञ्च-यद्य्यावइन्द्रतेशतं यदिन्द्रयावतस्त्वमिति प्रगाथौ स्तोत्रियानुरू- पाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः