मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ८

संहिता

अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।
त्वमी॑शिषे॒ वसू॑नाम् ॥

पदपाठः

अग्ने॑ । माकिः॑ । ते॒ । दे॒वस्य॑ । रा॒तिम् । अदे॑वः । यु॒यो॒त॒ ।
त्वम् । ई॒शि॒षे॒ । वसू॑नाम् ॥

सायणभाष्यम्

हे अग्ने देवस्य द्योतमानस्य ते तव रातिं दानं दत्तं धनं वा कश्चित् अदेवो मर्त्यादिर्माकिर्युयोत मैव पृथक्करोतु त्वमेव ईशिषे । कस्य वसूनां धनानां ईश्वरोभवसि दातुं अनेनानिश्रणीयायारातेः सद्भावउक्तो भवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२