मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् १०

संहिता

अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यन्तु दर्श॒तम् ।
अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥

पदपाठः

अच्छ॑ । नः॒ । शी॒रऽशो॑चिषम् । गिरः॑ । य॒न्तु॒ । द॒र्श॒तम् ।
अच्छ॑ । य॒ज्ञासः॑ । नम॑सा । पु॒रु॒ऽवसु॑म् । पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ ॥

सायणभाष्यम्

अच्छाभिमुखं यन्तु गच्छन्तु नोस्माकं गिरः स्तुतयः कं शीरशोचिषं अशनशीलज्वालं दर्शतं सर्वैर्दर्शनीयं अग्निम् । तथा यज्ञासो यज्ञाश्चास्मदीया नमसा हविषाज्यादिलक्षणेनाच्छा भिमुखं यन्तु गच्छतु । कीदृशं पुरुवसुं प्रभूतधनं पुरुप्रशस्तं बहुस्तुतं किमर्थं ऊतयेस्माकं रक्षणाय ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२