मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् ११

संहिता

अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् ।
द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥

पदपाठः

अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् ।
द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥

सायणभाष्यम्

अग्निं सहसःसूनुं बलस्यपुत्रं जातवेदसं जातधनं वार्याणां वरणीयानां गवादिधनानां दानाय गिरोच्छयन्त्वित्यनुवर्तते । योग्निरमृतः अमरणधर्मा देवेषु भवति समर्त्येष्वा आकारश्चार्थे मनुष्येषुच भूदभवदिति । एवं द्विता द्वैधं भवति देवेष्वमृतत्वमस्य प्रसिद्धम् । मनुष्येषु कीदृशो भूदिति उच्यते-विशि विक्षु यजमानरूपासु प्रजासु होता होमनिष्पादकः मन्द्रतमो मादयितृतमश्च भवति । अच्छयन्त्वितिसमन्वयः । अथवा यः अमृतो द्विता द्वित्वं द्वैधं द्विप्रकारोभूत् कथंमर्त्येषु सामान्येन दाहपाकादिसाधनो भवदित्येतत्प्रसिद्धम् । विशि यजमानरूपायांतु होता मन्द्रतमो भवदित्येवं द्वित्वम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३