मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् १२

संहिता

अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥

पदपाठः

अ॒ग्निम् । वः॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
अ॒ग्निम् । धी॒षु । प्र॒थ॒मम् । अ॒ग्निम् । अर्व॑ति । अ॒ग्निम् । क्षैत्रा॑य । साध॑से ॥

सायणभाष्यम्

हे यजमाना वो युष्माकं देवयज्यया देवयागेन निमित्तेन देवयागार्थमग्निं स्तौमीतिशेषः । तथाग्निं अध्वरे यागे प्रयति प्रकर्षेण गच्छति प्रवृत्तेसति स्तौमि । प्रथमं इतरदेवेभ्यः । तथाग्निमर्वति आगते भ्रातृव्ये स्तौमि । यज्ञे विघ्नपरिहारार्थम् । तथा क्षैत्राय क्षेत्राय क्षेत्रसंबन्धिने साधसे साधनाय क्षेत्रलाभाय स्तौमि । यज्ञान्ते क्षेत्रलाभरूपाय फलायच स्तौमि । एवं आदौ मध्येन्तेच सर्वदा स्तौमीत्यर्थः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३