मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् १३

संहिता

अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् ।
अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥

पदपाठः

अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे॑ । यः । वार्या॑णाम् ।
अ॒ग्निम् । तो॒के । तन॑ये । शश्व॑त् । ई॒म॒हे॒ । वसु॑म् । सन्त॑म् । त॒नू॒ऽपाम् ॥

सायणभाष्यम्

अग्निर्देवः सख्ये समानख्यानाय नो मत्द्यं सख्युः कर्म सख्यं तस्मिन् अथवा नोस्मभ्यं इषां इषोन्नानि ददातु । योग्निर्वार्याणां धनानामीशे ईष्टे सद- दात्विति । तमेवाग्निं तोके पुत्रार्थं तनये तत्पुत्रार्थंच शश्वद्बहुधनं अन्नंवा ईमहे याचामहे । वार्याणामीश इत्युक्तत्वादेवंलभ्यते कीदृशमग्निं वसुं वासकं सन्तं सर्वदा वर्तमानं तनूपां अंगानां पालयितारं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३