मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् १४

संहिता

अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।
अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥

पदपाठः

अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् ।
अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ळ्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दिः ॥

सायणभाष्यम्

हे पुरुमीह्ळ त्वमग्निं अवसे आवयोः रक्षणाय ईळिष्व स्तुहि गाथाभिः गाथेति वाङ्गाम मन्त्ररूपाभिर्वाग्भिः कीदृशं शीरशोचिषं शयनस्व भाव- रोचिष्कं तथा राये धनाय अग्निं ईळिष्व श्रुतमेनं नरोन्येपि यजमानाः स्तुवन्ति स्वार्थं तस्मात्सुदीतये मत्द्यं अग्निं छर्दिर्गृहं याचस्व इत्येवं सुदीतिः पुरुमीह्ळं ब्रूते ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३