मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७१, ऋक् १५

संहिता

अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।
विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑रृषू॒णाम् ॥

पदपाठः

अ॒ग्निम् । द्वेषः॑ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात॑वे ।
विश्वा॑सु । वि॒क्षु । अ॒वि॒ताऽइ॑व । हव्यः॑ । भुव॑त् । वस्तुः॑ । ऋ॒षू॒णाम् ॥

सायणभाष्यम्

अग्निर्देवः अस्माकं द्वेषः द्वेष्टृन् योतवै पृथक्कर्तुं गृणीमसि गृणीमः स्तुमः । तथाग्निं शं सुखं योश्च भयानामश्रणं च दातवे दातुं अथवा शं सुखस्य योर्मिश्रणायच । गृणीमसि । अस्मिन्पक्षे द्वेषो योतवा इत्यनेन सह समुच्चयार्थश्चशब्दः । सोग्निर्विश्वासु सर्वासु विक्षु प्रजासु अवितेव रक्षिता राजेव ऋषूण्णामृषीणामस्माकं वस्तुः वासको देवो हव्यो भुवत् भवतु । अथवा सर्वासु विक्षु यजमानरूपासु प्रजासु मध्ये ऋषूणामृषीणां सूक्तद्रष्टृणामस्माकमेव हव्यो भवतु वस्तुः सर्वस्य वासकोदेवः ॥ १५ ॥

हविष्कृणुध्वमित्यष्टादशर्चं तृतीयंसूक्तं अत्रानुक्रमणिका-हविद्मूना हर्यतः प्रागाथो हविषांस्तुतिर्वेति । प्रगाथपुत्रोहर्यतऋषिः परंगायत्रं प्राग्व- त्सप्रेरिति परिभाषया गाग्रत्रीछन्दः आग्नेयंत्वित्युक्तत्वादग्निर्देवता । यद्वा हविषांस्तयमानत्वात्तद्देवताकं वा । सूक्तविनियोगोलैङ्गिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३