मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १

संहिता

ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ ।
वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥

पदपाठः

ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ ।
वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥

सायणभाष्यम्

हे अध्वर्युसंबन्धिनो हविष्कर्तारोयूयं हविः कृणुध्वं कुरुध्वं शीघ्रं यत आगमदाजगामायमग्निः अतः कृणुध्वं अध्वर्युः पुनर्वनते संभजते किं सामर्थ्या- दध्वरमितिगम्यते । कीदृशोध्वर्युः अस्य हविषः प्रशासनं प्रदानं विद्वान् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४