मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् २

संहिता

नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।
जु॒षा॒णो अ॑स्य स॒ख्यम् ॥

पदपाठः

नि । ति॒ग्मम् । अ॒भि । अं॒शुम् । सीद॑त् । होता॑ । म॒नौ । अधि॑ ।
जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥

सायणभाष्यम्

होता ऋत्विक् तिग्मं तीक्ष्णमंशुं तमग्निं निषीदत् निषीदति । कीदृशोहोता अस्याग्नेः सख्यं मनौअधि यजमाने जुषाणः । अधीति सप्तम्यर्थानुवादी ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४