मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ३

संहिता

अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।
गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥

पदपाठः

अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् । प॒रः । म॒नी॒षया॑ ।
गृ॒भ्णन्ति॑ । जि॒ह्वया॑ । स॒सम् ॥

सायणभाष्यम्

तं रुद्रं रुद्दुःखं तस्यद्रावयितारं अथवा रुत् स्तुतिः तया गन्तव्यं स्तुत्यमित्यर्थः तादृशमग्निं जने यजमानार्थं मनीषया स्वप्रज्ञानेन परः परस्तात्पुरो- देशे इच्छन्ति स्थापयितुं तएव पश्चात् अन्तः ससं स्वपन्तमग्निं जिह्वया जन्ये जनकशब्दः जिह्वा प्रभवया स्तुत्या गृभ्णन्ति गृह्णन्ति अंगुलीभिः । अत्रयास्कः-स्वपन्तमेतन्मध्यमं ज्योतिरनित्यदर्शनमिति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४