मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ४

संहिता

जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् ।
दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥

पदपाठः

जा॒मि । अ॒ती॒त॒पे॒ । धनुः॑ । व॒यः॒ऽधाः । अ॒रु॒ह॒त् । वन॑म् ।
दृ॒षद॑म् । जि॒ह्वया॑ । आ । अ॒व॒धी॒त् ॥

सायणभाष्यम्

वयोधा अन्नस्यदाताग्निः मध्यमस्थानो जामि प्रवृद्धं सर्वमतिरिच्य वर्तमानम् । जाम्यतिरेकनामेतियास्कः । धनुर्धन्वान्तरिक्षं अतीतपे अतितपति । अथवा अग्नेर्जामि गमनशीलं धनुरतीतपते स्वविरोधिनम् । सच वयोधा अन्नस्यदाताग्निः वनमुदकंअरुहत् आरोहति विमोकाय । तदर्थं जिह्वया ज्वालया दृषदं मेघमवधीत् हन्ति । दावाग्निपक्षे वनं तरुसमूहं हन्ति जिह्वया दृषदं कठिनमपि पाषाणं भिनत्तीति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४