मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ५

संहिता

चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते ।
वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥

पदपाठः

चर॑न् । व॒त्सः । रुश॑न् । इ॒ह । नि॒ऽदा॒तार॑म् । न । वि॒न्द॒ते॒ ।
वेति॑ । स्तोत॑व्र् । अ॒म्ब्य॑म् ॥

सायणभाष्यम्

वत्सो वत्सवच्चापल्येन धावनाद्वत्स इत्युपचर्यते । अथवा वत्सइव सञ्चरन् इवशब्दोलुप्यते रुशन् श्वेतोभवन् इह अस्मिन् लोके निदातारं निरोधकं नविन्दते नलभते किन्तु स्तोतवेस्तोतुमंब्यं अन्यं स्तोतारं स्वयं वेति कामयते । अथवात्र वैद्युतोग्निरुच्यते वैद्युतोयं रुशन् चरंश्चेहान्तरिक्षे वत्सः सर्वदा वसन् वत्सस्थानीयोवा सन् निदातारं निरोधकं नविन्दते । किन्तु स्तोतुं अंब्यं माध्यमिकां वाचं वेति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४