मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ६

संहिता

उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।
दा॒मा रथ॑स्य॒ ददृ॑शे ॥

पदपाठः

उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व॑ऽवत् । योज॑नम् । बृ॒हत् ।
दा॒मा । रथ॑स्य । ददृ॑शे ॥

सायणभाष्यम्

उतो अपिच नु क्षिप्रं अद्य अस्यादित्यस्य यन्महत् माहात्म्ययुक्तं अश्वावत् संवृद्धाश्ववत् बृहत् महत् स्थूलं योजनं दृश्यते । तदेवाह-रथस्य दामाददृ- शे दृश्यते अन्तरिक्षे रथेश्वान्नियोजयतीत्यर्थः । तदा दुहन्तीत्युत्तरत्रसंबन्धः ॥ ६ ॥ अभिष्टवे घर्मदाहे दुहन्तिसप्तेत्येषा । सूत्रितञ्च-दुहन्तिसप्तैकां समिद्धोअग्निरश्विनेति । ग्रावस्तोत्रेप्येषा । सूत्रितञ्च-दुहन्तिसप्तैकामधुक्षत्पिप्युषी- मिषमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५