मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ८

संहिता

आ द॒शभि॑र्वि॒वस्व॑त॒ इन्द्र॒ः कोश॑मचुच्यवीत् ।
खेद॑या त्रि॒वृता॑ दि॒वः ॥

पदपाठः

आ । द॒शऽभिः॑ । वि॒वस्व॑तः । इन्द्रः॑ । कोश॑म् । अ॒चु॒च्य॒वी॒त् ।
खेद॑या । त्रि॒ऽवृता॑ । दि॒वः ॥

सायणभाष्यम्

विवस्वतः परिचरतो यजमानस्य दशभिरंगुलीभिर्याचितः सन्निन्द्रः कोशं मेघनामैतत् उदकसेचकं मेघं दिवोन्तरिक्षसम्बन्धिनं तत्सकाशाद्वा अचु- च्यवीद्मदारयदित्यर्थः । केनसाधनेनेति तदुच्यते त्रिवृता त्रिप्रकारवर्तनवता खेदया रश्मिना यद्वा अत्रेन्द्रशब्देनाग्निरादित्योवा गृत्द्यते खेदया त्रिवृ- तेति लिंगात् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५