मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ९

संहिता

परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।
मध्वा॒ होता॑रो अञ्जते ॥

पदपाठः

परि॑ । त्रि॒ऽधातुः॑ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी॑यसी ।
मध्वा॑ । होता॑रः । अ॒ञ्ज॒ते॒ ॥

सायणभाष्यम्

अयमग्निः त्रिधातुः लोहितशुक्लकृष्णभेदेन त्रिवर्णः जूर्णिर्जवो वेगवान् नवीयसी नवीयस्या ज्वालया अध्वरं प्रवर्ग्यं एति गच्छति होतारो होमनि- ष्पादका अध्वर्य्वादयो मध्वा आज्यादिना पर्यच्चते । अथवा अग्नेः त्रिप्रकारा क्षिप्रा नवतरा ज्वालापर्येति महावीरं तं मध्वांजतइति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५