मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १०

संहिता

सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् ।
नी॒चीन॑बार॒मक्षि॑तम् ॥

पदपाठः

सि॒ञ्चन्ति॑ । नम॑सा । अ॒व॒तम् । उ॒च्चाऽच॑क्रम् । परि॑ऽज्मानम् ।
नी॒चीन॑ऽबारम् । अक्षि॑तम् ॥

सायणभाष्यम्

नमसा नमनेन अवतं महावीरं उच्चाचक्रं उपरिस्थितचक्रं परिज्मानं परिणत्याभं नीचीनबारं नीचीनद्वारं अक्षितमक्षीणं ईदृशं क्षीराद्यवशे- षयुक्तं आहवनीयस्योपरि नमनेन सिञ्चन्ति जुह्वति महावीरेणत्द्याहवनीये हूयते ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५