मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् ११

संहिता

अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।
अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥

पदपाठः

अ॒भि॒ऽआर॑म् । इत् । अद्र॑यः । निऽसि॑क्तम् । पुष्क॑रे । मधु॑ ।
अ॒व॒तस्य॑ । वि॒ऽसर्ज॑ने ॥

सायणभाष्यम्

अद्रयः आद्रियमाणा अध्वर्य्वादयः अभ्यारमित् अभिगम्यैव निषिक्तम् अतिरिक्तं मधु पुष्करेव पुष्करे प्रवृद्धउपयमनीपात्रे सिञ्चन्ति अग्निहोत्रा- र्थमवतस्य महावीरस्य विसर्जने विसर्जनसमये होमानन्तरं खलु महावीरमासन्ध्यमासादयन्ति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६