मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७२, ऋक् १२

संहिता

गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।
उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥

पदपाठः

गावः॑ । उप॑ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति॑ । य॒ज्ञस्य॑ । र॒प्सुदा॑ ।
उ॒भा । कर्णा॑ । हि॒र॒ण्यया॑ ॥

सायणभाष्यम्

हे गावो घर्मदुघा यूयमवतं महावीरं प्रत्युपावतोपागच्छत । यस्माद्यज्ञस्य घर्मयागस्य साधनभूते रप्सुदा रप्सुदे आरिप्सोः फलप्रदे लिप्स्वोरश्वि- नोर्दातव्येवा । यद्वा रपणं शब्दनं रप् मंत्रः तेन सुष्टु दातव्ये । अथवा षूदक्षरणे रपा मन्त्रेण क्षारणीये दोहनीये ईदृशे गवाजयोः पयसी मही महती बहुले अपेक्षिते अतउपावतम् । गौरजाया अप्युपलक्षकः अजापयसोपि महावीरे सेचनीयत्वात् अपिचास्य महावीरस्य उभा उभौ कर्णाकर्णस्थानीयौ द्वौ रुक्मौ हिरण्यया हिरण्मयौ सुवर्णरजतमयावित्यर्थः ॥ १२ ॥ प्रवर्ग्ये अजापयसि महावीरे आनीयमाने आसुतइत्येषा सूत्रितञ्च-आसुतेसिञ्चतश्रियमित्याजइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६